अनुपर्गस्य ह्वयतेः सम्प्रसारणम् अप् प्रत्ययश्च भवति भावे अभिधेये। हवः। हवे हवे सुहवं शूरम् इन्द्रम्।
अनुपसर्गस्य इति किम्? आह्वायः। भावग्रहणम् अकर्तरि च कारके संज्ञायाम्
३।३।१९ इत्यस्य निरासार्थम्।
"भावग्रहणम्" इत्यादि। ननु च यथा "कर्मव्यतिहारे णच् स्त्रियाम्"
३।३।४३ इत्यत्र द्वये प्रकृते च लक्ष्यदर्शनवशाद्भाव एव प्रत्ययो विज्ञास्यते, तथेहापि, त()त्क भावग्रहणेन "अकत्र्तरि च कारके" (३।३।
१९) इत्येतन्निरासार्थेन? सत्यमेतत्; लक्ष्यदर्शनसामथ्र्यादेव प्राप्त एव एवार्थो भावग्रहणेनाख्यायते मन्दबुद्धीनामनुग्रहाय। अथ यथा "अभिविधौ भाव इनुण्"
३।३।४४ इत्यत्र "भावे" इति वत्र्तमाने पुनर्भावगर्हणं वासरूपनिरासार्थं विज्ञायते,
तथेहापि कस्मान्न विज्ञायते? लक्ष्यदर्शनवशात्। दृश्यते हि क्तादयः-- हूतम्, ह्वानम्, हूतिरिति। घञादौ वासरूपेण भावः॥